This page has not been fully proofread.

२७४
 
प्रपञ्चसारे
 
सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ ४९ ॥
 
त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं
 
प्रपूजयेद्यो मनुजो महामनाः ।
 
स धर्ममर्थ सुसुखं श्रियं परा-
 
मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ ५० ॥
 
ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो
देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्धधा ।
शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं
 
दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ ५१ ॥
 
भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं
 
गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव ।
 
लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धसर्पि-
 
दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ ५२ ॥
 
ध्यानी मन्त्री मन्त्रजापी च नित्यं
 
यद्यद्वाञ्छन्यत्र यत्र प्रयाति ।