This page has not been fully proofread.

सप्तदश: पटलः ।
 
२७३
 
हैयङ्गवीन कदली-
 
फलदधिभिः प्रीणयेच्च गोविन्दम् ॥ ४५ ॥
 
जुहुयाद्दुग्धहविर्भि-
 
र्विमलैः सर्पिः सितोपलोपेतैः ।
 
इष्टतुष्ट लक्ष्मी
 
समावहेत्सद्य एव गोविन्दः ॥ ४६ ॥
 
बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालनद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥
 
त्रन्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिच्छाकलन सुविलसत्कुन्तलं भानुमन्तं
 
देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥
 
विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः ।
 
*P. 18