2026-02-24 05:34:20 by ambuda-bot
This page has not been fully proofread.
२७०
प्रपञ्चसारे
आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् ।
रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ ३१ ॥
कुसुमात्रधिया बाह्ये स्पृशेत्कररुहैरपि ।
हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ ३२ ॥
रतावथोऽधोमध्योर्ध्वक्रमेणैवं समाहितम् ।
निजप्रियां भजेदेवं सा मारशरविह्वला ।
छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ ३३ ॥
साध्याख्या कामवर्णैः प्रतिपुटितलसत्कर्णिकं पत्रराज-
त्तारर्त्विक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् ।
आशाशूलाङ्कितं तद्विपतिरिपुदले सम्यगालिख्य सेरं
मारं जस्वास्य यामाशयति वशगता सा भवेत्सद्य एव ॥
हंसारूढो मदन-
त्रैलोक्यक्षोभको भवेदाशु ।
द्युतो रञ्जनकृत्स्या-
जीवोपेतस्तथायुषे शस्तः ॥ ३५ ॥