This page has not been fully proofread.

सप्तदश: पटलः ।
 
मदनविधानमितीत्थं
 
प्रोक्तं योऽनेन पूजयेद्विधिना ।
 
स तु सकललोक पूज्यो
 
भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ २६ ॥
 
विलसदहंकारतनु-
 
मनः शिवो विभ्रमास्पदीभूतः ।
 
बुद्धिशरीरां नारीं
 
नरः सदा चित्तयोनिमभिगच्छेत् ॥ २७ ॥
 
इति मदनयोगरत्या'
 
यो रमयेन्नित्यशो निजां वनिताम् ।
 
स तु भुक्तिमुक्तिकामी
 
वनिताजनहृदयमोहनो भवति ॥ २८ ॥
 
आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् ।
 
तद्वीजा शिवज्वालातनुं तन्वीतनुं तथा ॥ २९ ॥
 
सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् ।
 
संगच्छेञ्च शिवज्वालालीढं तद्धृदयादिकम् ॥ ३० ॥
 
1. • क्लृप्त्या.
 
२६९