This page has not been fully proofread.

२६८
 
प्रपञ्चसारे
 
अङ्गबाणावृतेरूर्ध्वं पूज्याः षोडश शक्तयः ।
युवतिर्विप्रलम्भा च ज्योत्स्ना सुश्रूदद्रवा ॥ १९ ॥
 
सुरता वारुणी लोला कान्तिः सौदामिनी तथा ।
कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ २० ॥
'योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः ।
शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ २१ ॥
 
अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः ।
 
ग्रीष्मस्तपान्त ऊर्जश्व हेमन्तः शिशिरो मदः ॥ २२ ॥
 
चतुर्थ्यामावृतौ पूज्याः स्युर्मारपरिचारकाः ।
 
परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ २३ ॥
 
अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः ।
 
माधवी मालती चैव हरिणाक्षी मदोत्कटा ।
एताश्वामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ २४ ॥
 
हृल्लेखया स्वनाम्ना च शक्त्यादीनां समर्चनम् ।
 
इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृश: ॥ २५ ॥
 
1. मायामयी