2026-02-24 05:34:20 by ambuda-bot
This page has not been fully proofread.
२६६
प्रपञ्चसरे
अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका ।
अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ ९॥
आलिख्यात्कर्णिकायामनलपुरपुटे मारबीजं ससाध्यं
तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् ।
- मालामन्त्रं दलाग्रेष्वपि गुहमुखश: पार्थिवाश्रिष्वनङ्गं
कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ १० ॥
प्रोक्त्वाथ कामदेवा-
य विद्महे तदनु पुष्पबाणाय ।
तथा च धीमह्यन्ते
तन्नोऽनङ्गः प्रचोदयाद्वायत्री ॥ ११ ॥
नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् ।
प्रियायेति तथा सर्वजनसंमोहनाय च ॥ १२ ॥
वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् ।
पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ १३ ॥
वशमुक्त्वा कुरूं वीप्स्य कथयेद्वह्निवल्लभाम् ।
प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १४ ॥