2026-02-24 05:34:20 by ambuda-bot
This page has not been fully proofread.
सप्तदशः पटलः ॥
*
अथ मन्मथमन्त्रविधिं विधिना
कथयामि सहोमविधिं सजपम् ।
मथनस्य पुरामपि मोहकरं
व्यथिताखिलसिद्धसुरादिगणम् ॥ १ ॥
अजकलाप्रथमावनिशान्तिभि-
युतसुधाकरखण्ड विकासिभिः ।
निगदितो मनुरेष मनोभुवः
सकलधर्मयशोर्थसुखावहः ॥ २ ॥
ऋष्यादिकाश्च संमो
हनगायत्रीमनोभवाः प्रोक्ताः ।
बीजेन दीर्घभाजा
कथितान्यङ्गान्यमुष्य जातियुजा ॥ ३ ॥
*
अथ मन्मथमन्त्रविधिं विधिना
कथयामि सहोमविधिं सजपम् ।
मथनस्य पुरामपि मोहकरं
व्यथिताखिलसिद्धसुरादिगणम् ॥ १ ॥
अजकलाप्रथमावनिशान्तिभि-
युतसुधाकरखण्ड विकासिभिः ।
निगदितो मनुरेष मनोभुवः
सकलधर्मयशोर्थसुखावहः ॥ २ ॥
ऋष्यादिकाश्च संमो
हनगायत्रीमनोभवाः प्रोक्ताः ।
बीजेन दीर्घभाजा
कथितान्यङ्गान्यमुष्य जातियुजा ॥ ३ ॥