This page has not been fully proofread.

षोडशः 1: 927: 1
 
नासां साध्य के निधाय सुधया तद्रन्धनिर्यातया
सिभ्वन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥
 
प्राग्भाषितानपि विधीन्विधिवद्विदध्या-
न्मन्त्री विशेषविदथान्वहमादरेण ।
एकत्र वा 'गणपतौ मनुजाः स्वरुच्या
 
नामानुरूपमनुमेनममी भजन्तु ॥ ७७ ॥
 
इति जपहुतपूजातर्पणैर्विघ्नराजं
 
प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला ।
 
भवति सधनधान्या पुत्रमित्रादियुक्ता
 
विगतसकलविघ्ना विश्वसंवादिनी च ॥ ७८ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
प्रपञ्चसारे षोडशः पटलः ॥
 
२६३