This page has not been fully proofread.

२६२
 
सापूपनालिकेरे-
 
प्रपञ्चसारे
 
क्षुककदलीभिस्तथा सुमधुराभिः ॥ ७२ ॥
 
अष्टभिरेतैर्विहितो
 
होमः सर्वार्थसाधको भवति ।
 
दिनशः सघृतान्नहुतो
 
गृहयात्रायापको गृहस्थानाम् ॥ ७३ ॥
 
अन्वहमन्वहमादौ
 
गणपं संतर्पयेचतुः पूर्वम् ।
 
चत्वारिंशद्वारैः
 
शुद्धजलैरिन्दिराप्तये मन्त्री ॥ ७४ ॥
 
समहागणपतियुक्तै-
 
विघ्नाद्यैर्दशभिराह्वयैर्दिनशः ।
 
तर्पणपूजाहुत विधि-
 
रपि वाञ्छित सिद्धिदायको भवति ॥ ७५ ॥
 
विम्बादम्बुदवत्समेत्य सवितुः सोपानके राजतै-
स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाङ्कुशम् ।