This page has not been fully proofread.

षोडश:
 
त्रिमधुरसितैर्जुहुया-
 
: पटलः ।
 
२६१
 
त्पूर्वोक्तैर्वाथ वाष्टभिर्द्रव्यैः ॥ ६८ ॥
 
विघ्नविनायकवीराः
 
सशूलवरदेभवक्त्रकै करदाः ।
 
लम्बोदरश्च मात-
 
ङ्गावृत्योरन्तरा च लोकेशाः ॥ ६९ ॥
 
पूज्याः सितघृतपायस-
 
हवनात्संजायते महालक्ष्मीः ।
 
केवलघृतहुत मुदितो
 
विघ्नः सद्यो वशीकरोति जगत् ॥ ७० ॥
 
एकमपि नालिकेरं
 
सचर्मलोष्टेन्धनं हुनेन्मन्त्री ।
 
दिनशश्चत्वारिंशु-
 
नितः स तु वाञ्छितार्थमभ्येति ॥ ७१ ॥
 
सह पृथुकसक्तुलाजै-
 
स्तिलैरभीष्टार्थसिद्धये जुहुयात् ।