2026-02-24 05:34:19 by ambuda-bot
This page has not been fully proofread.
षोडश: पटलः ।
मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् ।
जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ ५७ ॥
चतुर्थ्यां नालिकेरैस्तु होमः सद्यः श्रियावहः ।
हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ ५८ ॥
'दध्यन्नलोण मुद्राभिहुनेन्निशि चतुर्दिनम् ।
इष्टार्थसिद्धधै मतिमान्सद्यः संवादसिद्धये ॥ ५९ ॥
ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः ।
दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ ६० ॥
चत्वारिंशच्चतुः पूर्व तत्पूर्व वा चतुःशतम् ।
चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ ६१ ॥
नवनीते नवे लिख्यादनुलोमविलोमकम् ।
उदरस्थित साध्याख्यं तद्वीजं तत्प्रतिष्ठितम् ॥ ६२ ॥
समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसंख्यकम् ।
तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ ६३ ॥
अन्त्यासनोऽथ सूक्ष्मो
लोहितगोऽग्निः पुनः स एव स्यात् ।
1. दध्यक्त ०
2. तत्प्रवेष्टितम् .
२५९