This page has not been fully proofread.

२५८
 
प्रपञ्चसारे
 
हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो 'नागयज्ञाभिभूषो
 
देव: पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः ॥
 
दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः ।
जुहुयादष्टभिर्द्रव्यैर्यथापूर्वे दशांशतः ॥ ५० ॥
 
पीठे तीव्रादिभिः पद्मकर्णिकायां विनायकम् ।
आवाह्य पूजयेद्दिक्षु चतुर्ष्वपि यजेत्पुनः ॥ ५१ ॥
 
गणाधिपगणेशौ च गणनायकमेव च ।
 
गणक्रीडं कर्णिकायामङ्गैः किञ्जल्कसंस्थितैः ॥ ५२ ॥
 
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।
लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥ ५३ ॥
 
समर्चयेन्मातृवर्ग बाह्ये लोकेश्वरानपि ।
 
इति प्रोक्ता संग्रहेण गाणेशीयं समर्चना ॥ ५४ ॥
 
नालिकेरान्वितैर्मन्त्री सक्तुलाजतिलै हुनेत् ।
 
आरभ्याच्छां प्रतिपदं चतुर्थ्यन्तं चतुःशतम् ॥ ५५ ॥
 
दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् ।
तिलतण्डुलकैर्लक्ष्मीवश्यकृच यशस्करम् ॥ ५६ ॥
1. नागवोsहिभूषो.