2026-02-24 05:34:18 by ambuda-bot
This page has not been fully proofread.
षोडशः पटलः ।
२५७
'पुनरुद्धृत्य निवेद्या-
दिकं समभ्यर्च्य गणपतिं सावरणम् ।
उद्वास्यस्वे हृद
विहरेदित्यर्चना क्रमोद्दिष्टा ॥ ४४ ॥
प्रोक्तस्त्वेवं दशभुजमनुः संग्रहेणात्र भक्तो
दीक्षां प्राप्तो विधिवदद्भिजत्वाथ हुत्वार्चयित्वा ।
नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा-
लब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥
स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः ।
बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ ४६ ॥
चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः ।
वैनो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ ४७ ॥
गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता ।
बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ ४८ ॥
रक्त रक्ताङ्गरागांशुक कुसुमयुतस्तुन्दिलश्चन्द्रमौलि -
नैत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।
*P. 17