This page has not been fully proofread.

-२५६
 
प्रपञ्चसारे
 
सचतुश्चत्वारिंश-
 
त्सहस्रसंख्यैश्चतुःशतैः श्रुतिभिः ।
 
दशकचतुष्कैहुत्वा
 
चत्वारिंशद्भिरन्तरेण दिनैः ॥ ४० ॥
 
करिकलभाः करिणीभिः
 
संपात्यन्तेऽवटेऽत्र गणपतिना ।
 
प्रतिदिनमभ्यवहार्य च
 
विप्रान्संवर्धितस्तदाशीर्भिः ॥ ४१ ॥
 
तेषां मातङ्गानां
 
दद्यात्पव्यांशदक्षिणां गुरव ।
 
तद्विक्रीतं वसु वा
 
प्रसादितायाथ तद्दशांशं वा ॥ ४२ ॥
 
मिथुनानां गणपानां
 
निध्योश्च तथाङ्गमातृलोकेशानाम ।
 
मन्त्री घृतेन हुत्वा-
 
भ्यर्च्य च होमं समापयेत्सम्यक् ॥ ४३ ॥