2026-02-24 05:34:18 by ambuda-bot
This page has not been fully proofread.
षोडशः
ः पटलः ।
२५५
आवाह्य विघ्नेश्वरमर्चयित्वा
प्रागुक्तया तत्र विधानक्लुप्त्या ।
निवेदयित्वा सह भक्ष्यलैयैः
प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ ३६ ॥
आधाय वैश्वानरमत्र कुण्डे
समर्च्य मन्त्रैः क्रमशः कृशानोः ।
तैरेव पूर्व जुहुयाद्भूतेन
मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ ३७ ॥
तारेण लक्ष्म्यद्रिसुतास्मरक्षमा-
विघ्नेशबीजैः क्रमशेोऽनुबद्धैः ।
पदत्रयेणापि च मन्त्रराजं
विभज्य मन्त्री नवधा जुहोतु ॥ ३८ ॥
पुनः समस्तेन न्व मन्त्रवर्ण-
संख्यं प्रजुह्वन्नपि सर्पिषैव ।
पूर्व प्रदिष्टैर्जुहुयादथाष्ट-
द्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ ३९ ॥
:
ः पटलः ।
२५५
आवाह्य विघ्नेश्वरमर्चयित्वा
प्रागुक्तया तत्र विधानक्लुप्त्या ।
निवेदयित्वा सह भक्ष्यलैयैः
प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ ३६ ॥
आधाय वैश्वानरमत्र कुण्डे
समर्च्य मन्त्रैः क्रमशः कृशानोः ।
तैरेव पूर्व जुहुयाद्भूतेन
मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ ३७ ॥
तारेण लक्ष्म्यद्रिसुतास्मरक्षमा-
विघ्नेशबीजैः क्रमशेोऽनुबद्धैः ।
पदत्रयेणापि च मन्त्रराजं
विभज्य मन्त्री नवधा जुहोतु ॥ ३८ ॥
पुनः समस्तेन न्व मन्त्रवर्ण-
संख्यं प्रजुह्वन्नपि सर्पिषैव ।
पूर्व प्रदिष्टैर्जुहुयादथाष्ट-
द्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ ३९ ॥
: