This page has not been fully proofread.

२.५४
 
प्रपञ्चसारे
 
अथ गजलिप्सुर्नृपति-
 
गजवनमध्ये प्रसाधयेद्वारि ।
 
तन्निकटे तु विशालं
 
चतुरश्रं कारयेच्च गृहवर्यम् ॥ ३२ ॥
 
परिवीतदृढावरणं
 
तच्च चतुर्द्वारतोरणोल्लसितम् ।
 
तस्मिन्मण्डपa
 
चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ २२ ॥
 
उत्तरभागे तस्याः
 
कुण्डं रचयेद्यथा पुरा तत्र ।
 
चापजहरिभवमानुष-
 
चक्रप्रोक्तानथाक्षरान्मन्त्री ॥ ३४ ॥
 
ऊर्ध्वादिमेखलासु
 
क्रमेण विलिखनिजेष्टसमवायै ।
 
संप्रोक्तलक्षणयुतं
 
प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ ३५ ॥