This page has not been fully proofread.

षोडश:
 
इति जपहुतार्चनाद्यैः
 
: पटलः ।
 
२५३
 
सिद्धो मन्त्रेण कर्म कुर्वीत ।
 
अष्टद्रव्यैर्वान्यै-
 
हुने तत्तत्प्रयोजनवायै ॥ २८ ॥
 
स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये सर्पिषा
लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वर्द्धये ।
अन्नैरन्नसमृद्धये च सतिलैर्द्रव्याप्तये तण्डुलै-
र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ।
 
पद्यैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै -
रश्वत्थादिसमिद्भिरप्रमुखान्वर्णान्वधूः पिष्टजै: ।
पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये
लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेत सैः ॥ ३० ॥
 
मन्त्रेणाथ पुरामुनैष चतुरावृत्त्या समातर्प्य च
श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् ।
आमोदादिनिधिद्वयं च सचतुः पूर्व चतुर्वारकं
 
मन्त्री तर्पणतत्परोऽभिलषितं संप्राप्नुयान्मण्डलात् ॥