This page has not been fully proofread.

षाडश: पटलः ।
 
२५१
 
मोदक थुका लाजा:
 
ससक्तवः सेक्षुनालिकेरतिला: ।
 
कदलीफलसहितानी-
 
त्यष्ट द्रव्याणि संप्रदिष्टानि ॥ २० ॥
 
अनुदिनमर्चयितव्यो
 
जपता मनुमपि च मन्त्रिणा गणपः ।
 
प्राक्प्रोक्तपद्मपीठे
 
सशक्तिके साधिका मनौ विधिना ॥ २१ ॥
 
तीव्रा ज्वालिनिनन्दे
 
सभोगदा कामरूपिणी चोप्रा ।
 
तेजोवती च नित्या
 
संप्रोक्ता विघ्ननाशिनी नवमी ॥ २२ ।
 
सर्वयुतं शक्तिपदं
 
प्रोक्त्वा कमलासनाय नम इति च ।
 
आसनमन्त्रः प्रोक्तो
 
नवशक्त्यन्ते समर्चयेदमुना ॥ २३ ॥