2026-02-24 05:34:17 by ambuda-bot
This page has not been fully proofread.
२४८
प्रपञ्चसारे
सिंहमुखपादपीठग-
लिपिमयपद्मे त्रिषट्कोणाल्लसिते ।
आसीनस्त्वेकर दो
बृहदुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ ८ ॥
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
व्रीह्मग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥
करपुष्करधृतकलश-
स्रुतमणिमुक्ताप्रवालवर्षेण ।
अविरतधारां विकिर-
न्परितः साधकसमग्रसंपन्त्यै ॥ १० ॥
मदजललोलुपमधुकर-
मालां निजकर्णतालताडनया ।
निर्वासयन्मुहुर्मुहु-
रमरैरसुरैश्च सेवितो युगपत् ॥ ११ ॥