2026-02-24 05:34:17 by ambuda-bot
This page has not been fully proofread.
षोडशः पटलः ।
प्रणवादिबीजपीठ-
स्थितेन दीर्घस्वरान्वितेन सता ।
अङ्गानि षडिध्या-
न्मन्त्री विघ्नेश्वरस्य बीजेन ॥ ४ ॥
मन्दाराद्यैः कल्पक-
वृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशेऽन्त-
बलातपचन्द्रिकाकुले च तले ॥ ५ ॥
ऐक्षवजलनिधिलहरी -
कणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरु-
सुमनःश्रितमधुपपक्षचलनपरेण ॥ ६ ॥
रत्नमये मणिव-
प्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभि-
युगपत्संसेवितस्य कल्पतरोः ॥ ७ ॥
२४७
प्रणवादिबीजपीठ-
स्थितेन दीर्घस्वरान्वितेन सता ।
अङ्गानि षडिध्या-
न्मन्त्री विघ्नेश्वरस्य बीजेन ॥ ४ ॥
मन्दाराद्यैः कल्पक-
वृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशेऽन्त-
बलातपचन्द्रिकाकुले च तले ॥ ५ ॥
ऐक्षवजलनिधिलहरी -
कणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरु-
सुमनःश्रितमधुपपक्षचलनपरेण ॥ ६ ॥
रत्नमये मणिव-
प्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभि-
युगपत्संसेवितस्य कल्पतरोः ॥ ७ ॥
२४७