2026-02-24 05:34:16 by ambuda-bot
This page has not been fully proofread.
षोडशः पटलः ॥
अथ संग्रहेण कथयामि
मनुमपि महागणेशितुः ।
यमवहितधियः समुपास्य
सिद्धिमधिकां प्रपेदिरे ॥ १ ॥
तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा
पश्चाद्विघ्नं चतुर्थ्या वरवरदमथो सर्वयुक्तं जनं च ।
आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्त:
प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥
ऋषिरपि गणकोऽस्य स्या-
च्छन्दोनिचृदन्त्रिता च गायत्री ।
सकलसुरासुरवन्दित-
चरणयुगो देवता महागणपः ॥ ३ ॥