This page has not been fully proofread.

२४४
 
प्रपञ्चसारे
 
सम्यक्समये दहनं नचिरेण जन्तु-
 
श्चातुर्थिकादिविषमज्वरतो वियुज्यात् ॥ ६१ ॥
 
क्षीरद्रुमत्वगभिपक्कजलैर्यथाव-
 
त्संपूर्य कुम्भमभिपूज्य कृशानुमव ।
 
जत्वा मनुं पुनरमुं त्रिसहस्रमानं
 
सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ ६२ ॥
 
पयसि हृदयदन्ने भानुमालोक्य तिष्ठ-
 
न्प्रजपतु च सहस्रं नित्यशो मन्वमेनम् ।
स दुरितमपमृत्युं रोगजातांच हित्वा
 
व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ ६३ ॥
 
मनुनामुनाष्टशतजप्तमथ
 
प्रपिवेज्जलं ज्वलनदीपनकृत् ।
 
गुरु भुक्तमप्युदरगं त्वमुना
 
परिजापितं पचति कुक्ष्यनलः ॥ ६४ ॥
 
हुनेदरुणपङ्कजैखिमधुराप्लुतैर्नित्यशः
 
सहस्रमृतुमासतः पृथुतरा रमा जायते ।