2026-02-24 05:34:16 by ambuda-bot
This page has not been fully proofread.
पञ्चदशः पटलः ।
२४३
धनधान्यसमृद्धः स्या-
न्मन्त्री संवत्सरार्धमात्रेण ॥ ५७ ॥
आज्यैरयुतं जुहुया-
प्रतिमासं प्रतिपदं समारभ्य ।
अतिमहती लक्ष्मी: स्या-
दस्य तु षण्मासतो न संदेहः ॥ ५८ ॥
अरुणैः पुनरुत्पलैः शतं यो
मधुराक्तैः प्रजुहोति वत्सरार्धम् ।
मनुनाप्यमुना दशाधिकं स
प्रलभेन्मङ्कु महत्तरां च लक्ष्मीम् ॥ ५९ ॥
जातीपलाशकरवीरजपाख्यबिल्व-
व्याघातकेसरकुरण्डभवैः प्रसूनैः ।
एकैकशः शतमथो मधुरत्रयाक्तै-
जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ ६० ॥
खण्डैश्व सप्तदिनमप्यमृतालतोत्थै-
मन्त्री हुनेगुणसहस्रमथो पयोक्तः ।
२४३
धनधान्यसमृद्धः स्या-
न्मन्त्री संवत्सरार्धमात्रेण ॥ ५७ ॥
आज्यैरयुतं जुहुया-
प्रतिमासं प्रतिपदं समारभ्य ।
अतिमहती लक्ष्मी: स्या-
दस्य तु षण्मासतो न संदेहः ॥ ५८ ॥
अरुणैः पुनरुत्पलैः शतं यो
मधुराक्तैः प्रजुहोति वत्सरार्धम् ।
मनुनाप्यमुना दशाधिकं स
प्रलभेन्मङ्कु महत्तरां च लक्ष्मीम् ॥ ५९ ॥
जातीपलाशकरवीरजपाख्यबिल्व-
व्याघातकेसरकुरण्डभवैः प्रसूनैः ।
एकैकशः शतमथो मधुरत्रयाक्तै-
जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ ६० ॥
खण्डैश्व सप्तदिनमप्यमृतालतोत्थै-
मन्त्री हुनेगुणसहस्रमथो पयोक्तः ।