This page has not been fully proofread.

पञ्चदशः पटलः ।
 
२४१
 
मूलमनुनाथ कुर्या -
 
दङ्गानि क्रमश एव मन्त्रितमः ॥ ४९ ॥
 
रैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृति
 
वर्षन्तं धनधान्यरत्ननिचयान्रन्धैः स्वकैः संततम् ।
 
ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसंभेदनं
 
वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृति पावकम् ॥ ५० ॥
 
जप्याच्च लक्षमानं
 
मन्त्री संदीक्षितोऽथ मनुमनम् ।
 
जुहुयाच्च तदवसानं
 
घृतसिक्तैः पायसैर्दशांशेन ॥ ५१ ॥
 
अङ्गैर्हुतवहमूर्तिभि-
 
राशेशैः संयजेत्तदत्रैश्च ।
 
पावकमिति मन्त्रितमो
 
गन्धाद्यैरनुदिनं तदुपहारैः ॥ ५२ ॥
 
दिनावतारे मनुमेनमन्वहं
 
जपेत्सहस्रं नियमेन मन्त्रवित् ।
 
1. फलदं
 
*P. 16