This page has not been fully proofread.

-२४०
 
प्रपञ्चसारे
 
धनधान्यसुवर्णरत्नपूर्णा
 
धरणी गोवृषपुत्रमित्रकीर्णा ॥ ४५ ॥
 
प्रजपदथ वा सहस्रसंख्यं
 
दिनशो वत्सरतो भवेन्महाश्रीः ।
 
जुहुयात्प्रतिवासरं शताख्यं
 
हविषाब्देन भवेन्महासमृद्धि: ॥ ४६ ॥
 
पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं
नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् ।
षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा
होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥
 
उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य
 
प्रोच्याथो लोहिताक्षं पुनरपि च वदेदेहि मेदान्क्रमेण ।
-भूयो ब्रूयात्तथा दापय शशियुगलाणश्वतुर्विंशदर्णः
प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ।
 
ऋष्याद्याः स्युः पूर्वव-
 
तुभूतदिशाविकरणयुगलार्णैः ।