This page has not been fully proofread.

पञ्चदशः पटलः ।
 
२३९.
 
दधदमिताकल्पो यो
 
वसुरवतात्कनकमालिकालसितः ॥ ३८ ॥
 
वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः ।
 
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ ३९ ॥
 
अर्चयेदङ्गमूर्तीश्च लोकेश कुलिशादिभिः ।
 
समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ ४० ॥
 
ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः ।
परेऽह्नि प्रतिपद्येतैर्जुहुयादर्चितेऽनले ॥। ४१ ॥
 
मन्त्री वटसमिद्रीहितिलराजिहविघृतैः ।
अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ ४२ ॥
 
दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ ।
 
शक्त्या प्रत विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ ४३ ॥
 
सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् ।
पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ ४४ ॥
 
विधिनेति विधातुरग्निपूजा-
 
मचिरेणैव भवेन्महासमृद्धिः ।