This page has not been fully proofread.

पञ्चदश: पटल: ।
 
२३७
 
पीठे तनूनपातः
 
प्रागङ्गैरष्टमूर्तिभिस्तदनु ।
 
भूयश्च शतमखाद्यै-
 
विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ ३० ॥
 
आज्यैरष्टोर्ध्वशतं
 
प्रतिपदमारभ्य मन्त्रविद्दिनशः ।
 
चतुरो मासाञ्जुहुया-
 
लक्ष्मीरत्यायता भवेत्तस्य ॥ ३१ ॥
 
शुद्धाभि: शालीभि-
 
दिनमनुजुहुयात्तथान्दमात्रेण ।
 
शालीशालि गृहं स्या-
 
गोमहिषाद्यैश्च संकुलं तस्य ॥ ३२ ॥
 
शुद्धान्नैर्धृतसिक्तैः
 
प्रतिदिनमग्नौ समेधिते जुहुयात् ।
 
अन्नसमृद्धिर्महती
 
स्यादस्य निकेतनेऽब्दमात्रेण ॥ ३३ ॥