This page has not been fully proofread.

२३६
 
प्रपञ्चसार
 
भृगुरपि तदृषिश्छन्दो
 
गायत्री देवतानिरुद्दिष्टः ।
 
प्राक्प्रोक्तान्यङ्गानि
 
'विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ २६ ॥
 
शक्तिस्वस्तिकपाशा-
 
न्साङ्कुशवरदाभयान्दधत्रिमुखः ।
 
मकुटादिविविधभूषो-
 
Saताश्चिरं पावकः प्रसन्नो वः ॥ २७ ॥
 
जपेदिमं मनुमृतुलक्षमादरा-
 
दशांशतः प्रतिजुहुयात्पयोन्धसा ।
 
ससर्पिषाप्यसिततरैश्च षाष्टिकैः
 
समर्चयेदथ विधिवद्विभावसुम ॥ २८ ॥
 
पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ।
रुचिरा 'कालिनी चेति कृशानोर्नव शक्तयः ॥ २९ ॥
 
1. द्विश: ; 2. ज्वालिनी.