2026-02-24 05:34:14 by ambuda-bot
This page has not been fully proofread.
पञ्चदशः पटलः ।
इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् ।
अमितां श्रियमाप्नोति कान्ति पुत्रान्यशः पशून् ।
सोमार्घ्यदाता लभते दीर्घमायुश्च विन्दति ॥ २२ ॥
इति सोममन्त्रसिद्धिं
प्रणिगदितः संग्रहेण मन्त्रविदाम् ।
उपकृतयेऽमितलक्ष्म्यै
मेधायै प्रेत्य चेह संपन्त्यै ॥ २३ ॥
अथाग्निमन्त्रान्सकलार्थसिद्धि-
करान्प्रवक्ष्ये जगतो हिताय ।
सर्ष्यादिक्लृप्तीनपि साङ्गभेदा-
न्साचविशेषान्सजपादिकांश्च ॥ २४ ॥
वियतो दशमोऽर्घिसर्गयुक्तो
भुवसर्गौ भृगुलान्तषोडशाचः ।
हुतभुग्दयिता ध्रुवादिकोऽयं
मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ २५ ॥
२३५
इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् ।
अमितां श्रियमाप्नोति कान्ति पुत्रान्यशः पशून् ।
सोमार्घ्यदाता लभते दीर्घमायुश्च विन्दति ॥ २२ ॥
इति सोममन्त्रसिद्धिं
प्रणिगदितः संग्रहेण मन्त्रविदाम् ।
उपकृतयेऽमितलक्ष्म्यै
मेधायै प्रेत्य चेह संपन्त्यै ॥ २३ ॥
अथाग्निमन्त्रान्सकलार्थसिद्धि-
करान्प्रवक्ष्ये जगतो हिताय ।
सर्ष्यादिक्लृप्तीनपि साङ्गभेदा-
न्साचविशेषान्सजपादिकांश्च ॥ २४ ॥
वियतो दशमोऽर्घिसर्गयुक्तो
भुवसर्गौ भृगुलान्तषोडशाचः ।
हुतभुग्दयिता ध्रुवादिकोऽयं
मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ २५ ॥
२३५