This page has not been fully proofread.

- २३४
 
प्रपञ्चसारे
 
असंशयतरं तेन 'निधानमुपलभ्यते ।
 
घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ १४ ॥
 
तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः ।
 
नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ १५ ॥
 
जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये ।
 
त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥
 
आसीनः पश्चिमे 2 मध्ये संस्थे द्रव्याणि विन्यसेत् ।
पूर्वस्मिन्पङ्कजोपेते पूर्ववत्सोममर्चयेत् ॥ १७ ॥
 
कायामुदये राज्ञो निजकार्य विचिन्तयेत् ।
संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ १८ ॥
 
गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् ।
अष्टोत्तरशतावृत्त्या दद्यादर्घ्यमथेन्दवे ॥ १९ ॥
 
विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्द्वतात्मना ।
 
विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ २० ॥
 
चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् ।
 
प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ २१ ॥
 
1. निधानमपि लभ्यते । 2. मध्यसंस्थे.