This page has not been fully proofread.

पश्ञ्चदशः पटलः ।
 
अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यर्च्य भाधिपम् ।
पयोन्नेन हुनेद्भूयः सघृतेन सहस्रकम् ॥ ६ ॥
 
ससर्पिषा पायसेन षट्सहस्रं हुनेत्ततः ।
पीठक्लप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ ७ ॥
 
केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् ।
 
रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ ८ ॥
 
राविमाद्रह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् ।
दलायेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ ९ ॥
 
सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा ।
 
शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ १० ॥
 
सितमाल्याम्बरालेपा रचिताञ्जलयो मताः ।
इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ ११ ॥
 
त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युंजयो भवेत् ।
हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ १२ ॥
 
राज्यैश्वर्य वत्सरेण प्राप्नुयादप्यकिंचनः ।
 
आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ १३ ॥
 
२३३.