2026-02-24 05:34:14 by ambuda-bot
This page has not been fully proofread.
पञ्चदशः पटलः ॥
अथ चन्द्रमनुं वक्ष्ये सजपाचहुतादिकम् ।
हिताय मन्त्रिणां सार्घ्यविधानं च समासतः ॥ १ ॥
भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः ।
विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ २ ॥
दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् ।
विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ ३ ॥
अमलकमलसंस्थः सुप्रसन्नाननेन्दु-
र्वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्दयोतिताङ्कः शशाङ्कः ॥ ४ ॥
दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी ।
पञ्चमीदशमीपभ्वदशीषु तु विशेषतः ॥ ५ ।