This page has not been fully proofread.

२३०
 
अथ वा सघृतैरन्नैः
 
प्रपञ्चसारे
 
समर्चयेन्नित्यशोऽर्घ्यमपि दद्यात् ।
 
पूर्वोक्त एव पीठे
 
कुम्भं प्रणिधाय साधु संपूर्य ॥ ६२ ॥
 
शुद्धाद्धिररुणवासो-
 
युगेन संवेष्टय पूजयेत्क्रमशः ।
 
अङ्गावृतैः परस्ता-
 
दादित्याद्यैरुषादिशक्तियुतैः ॥ ६३ ॥
 
मातृभिररुणान्ताभि-
 
ग्रहैः सुरैश्चान्तसूर्य परिषद्भिः ।
 
सोषा सप्रज्ञा च
 
प्रभा च संध्या च शक्तयः प्रोक्ताः ॥ ६४ ॥
 
संपूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्त्राभिषेकं
कृत्वा दत्तेन संख्यां वसुमपि गुरवे सांशुकं भोजयेश ॥
विप्रानादित्यसंख्यानिति विदितमनुं नित्यशोऽर्घ्यं च दद्या-
द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥