2026-02-24 05:34:13 by ambuda-bot
This page has not been fully proofread.
चतुर्दश: पटल:
आदित्यं रविभानू
भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः ।
सशिरोमुखहृद्गुह्यक-
चरणेषु क्रमश एव मन्त्रितमः ॥ ५८ ॥
सशिरोमुखगलहृदयो-
दरनाभिशिवाङ्घ्रिषु प्रविन्यस्येत् ।
प्रणवाद्यैरष्ट्राणैः
:
क्रमेण सोऽयं तदक्षरन्यासः ॥ ५९ ॥
अरुणोरुणपङ्कजे निषण्णः
कमलेऽभीतिवरी करैर्दधानः ।
स्वरुचाहितमण्डलस्त्रिणेत्रो
रविराकल्पशताकुलोऽवताद्वः ॥ ६० ॥
संदीक्षितस्तु मन्त्री
मन्त्रं प्रजपेत्तु वर्णलक्षं तम् ।
जुहुयात्रिमधुर सिक्तै-
दुग्धतरुसमिद्धरैर्वसुसहस्रम् ॥ ६१ ॥
२२९
आदित्यं रविभानू
भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः ।
सशिरोमुखहृद्गुह्यक-
चरणेषु क्रमश एव मन्त्रितमः ॥ ५८ ॥
सशिरोमुखगलहृदयो-
दरनाभिशिवाङ्घ्रिषु प्रविन्यस्येत् ।
प्रणवाद्यैरष्ट्राणैः
:
क्रमेण सोऽयं तदक्षरन्यासः ॥ ५९ ॥
अरुणोरुणपङ्कजे निषण्णः
कमलेऽभीतिवरी करैर्दधानः ।
स्वरुचाहितमण्डलस्त्रिणेत्रो
रविराकल्पशताकुलोऽवताद्वः ॥ ६० ॥
संदीक्षितस्तु मन्त्री
मन्त्रं प्रजपेत्तु वर्णलक्षं तम् ।
जुहुयात्रिमधुर सिक्तै-
दुग्धतरुसमिद्धरैर्वसुसहस्रम् ॥ ६१ ॥
२२९