2026-02-24 05:34:13 by ambuda-bot
This page has not been fully proofread.
२२८
प्रपञ्चसारे
सोमादीनां दिशि दिशि समाधाय वह्निं यथाव-
द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च ।
युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घ
कृत्वा शान्ति व्रजति पुनेरकत्व वा सर्वहोमः ॥ ५३ ॥
अमुना ' विधिना हुतार्चनाद्यैः
प्रभजेद्यो दिनशो नरो दिनेशम् ।
मणिभिः स धनैश्च धान्यवर्यै:
परिपूर्णावसथो भवेश्चिराय ॥ ५४ ॥
त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः ।
व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ ५५ ॥
देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते ।
आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ ५६ ॥
सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः ।
तेजोज्वालामणि हुंफट्स्वाहान्तैरङ्गमाचरेत् ॥ ५७ ॥
1. विधिनाचेनाहुतायैः.