2026-02-24 05:34:13 by ambuda-bot
This page has not been fully proofread.
चतुर्दशः पटलः ।
२२७
श्यामाकतण्डुलयुतांश्च यथाप्रलाभा-
संयोज्य भक्तिभरतोऽर्घ्यविधिर्विधेयः ॥ ४९ ॥
कृत्वा मण्डलमष्टपत्वलसितं तत्कर्णिकायां तथा
पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः ।
आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेक क्रियां
कुर्याद्यो वैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥
गृहपरिमितमिष्ट्रा पूर्वक्या दिनेशं
प्रतिजुहुत निजर्क्षे वैकृते वा ग्रहाणाम् ।
शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा
रिपुनृपजभये वा घोररूपे गदे वा ॥ ५१ ॥
अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च
सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः ।
दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण
'सव्याहृतीनि घृतहव्यघृतानि होमः ॥ ५२ ॥
1. सर्पिर्हविर्धृतयुताः पृथगेव च स्युः ॥ ५२ ॥
आज्याहुत्या वादा-
वन्ते च व्याहृतीभिरपि जुहुयात् ।