This page has not been fully proofread.

२२६
 
प्रपञ्चसारे
 
आयादिष्वषु
 
धरणिजमन्दाहिकेतवः पूज्याः ॥ ४५ ॥
 
शुभ्रतिपीतशुक्ला
 
रक्तासितधूम्रकृष्णकाः क्रमशः !
 
चन्द्राद्याः केत्वन्ता
 
वामोरुन्यस्तवामकरलसिताः ॥ ४६ ॥
 
अपरकराभयमुद्रा-
 
विकृतमुखोऽहिः कराहिताञ्जलियुक् ।
 
दंष्टोप्रास्यो मन्दः
 
सुवर्णसदृशांशुकादिभूषश्च ॥ ४७ ॥
 
संपूज्यैव विधिना
 
विधिवद्गोरोचनादिभिर्द्रव्यैः ।
 
दद्यादये
 
मन्त्री निजवाञ्छितार्थलाभाय ॥ ४८ ॥
 
गोरोचनास्त्रतिलवैणवराजिरक्त-
 
शीताख्यशालिकरवीरजपाकुशाग्रान् ।