2026-02-24 05:34:12 by ambuda-bot
This page has not been fully proofread.
चतुर्दश: पटलः ।
२२५
कलिता भयवरदो द्युति-
बिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ ४१ ॥
कृतसंदीक्षो मन्त्री
दिनकरलक्षं जपेन्मनुं जुहुयात् ।
तावत्सहस्रमन्नैः
सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ ४२ ॥
प्रागभिहितेन विधिना
पीठाद्यं प्रतिविधाय तत्र पुनः ।
विन्यस्य कलशमस्मि -
न्प्रपूजयेत्तरणिमपि च सावरणम् ॥ ४३ ॥
अङ्गैः प्रथमावरणं
ग्रहैर्द्वितीयं तृतीयमाशेशैः ।
मुख्यतरगन्धसुमनो-
धूपाद्यैरात्तभक्तिनम्रमनाः ॥ ४४ ॥
प्रागादिदिशासंस्थाः
शशिबुधगुरुभार्गवाः क्रमेण स्युः ।
*P. 15
२२५
कलिता भयवरदो द्युति-
बिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ ४१ ॥
कृतसंदीक्षो मन्त्री
दिनकरलक्षं जपेन्मनुं जुहुयात् ।
तावत्सहस्रमन्नैः
सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ ४२ ॥
प्रागभिहितेन विधिना
पीठाद्यं प्रतिविधाय तत्र पुनः ।
विन्यस्य कलशमस्मि -
न्प्रपूजयेत्तरणिमपि च सावरणम् ॥ ४३ ॥
अङ्गैः प्रथमावरणं
ग्रहैर्द्वितीयं तृतीयमाशेशैः ।
मुख्यतरगन्धसुमनो-
धूपाद्यैरात्तभक्तिनम्रमनाः ॥ ४४ ॥
प्रागादिदिशासंस्थाः
शशिबुधगुरुभार्गवाः क्रमेण स्युः ।
*P. 15