This page has not been fully proofread.

२२४
 
प्रपञ्चसारे
 
यं प्राप्य सकलवसुसुख-
 
धर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ ३६ ॥
 
अरुणा शिखिदीर्घयुता
 
लेखा श्वेतया युतानन्ता ।
 
प्रोक्तः प्रयोजनानां
 
तिलकस्तु यथार्थवाचको मन्त्रः ॥ ३७ ॥
 
गुह्यादाचरणतलं
 
कण्ठादागुह्यमागलं कान्तान् ।
 
विन्यस्य मन्त्रबीजा-
 
न्क्रमेण मन्त्री करोतु चाङ्गानि ॥ ३८ ॥
 
मन्त्रस्य मध्यमनुना
 
दीर्घयुजाङ्गानि चेह कथितानि ।
 
ध्यायेत्पुनरहिमकरं
 
मन्त्री निजवाञ्छितार्थलाभाय ॥ ३९ ॥
 
अरुणसरोरुहसंस्थ-
 
त्रिगरुणोऽरुणसरोजयुगलधरः ।