This page has not been fully proofread.

चतुर्दश:
 
: पटलः ।
 
२२३
 
विधाय शशिनात्ममन्त्रयुतवामदोंष्णा पुनः
 
सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ ३२ ॥
 
नारी नरो वा विधिनाभिषिक्तो
 
मन्त्रेण तेनेति विषद्वयोढैः ।
रोगैस्तदाधिप्रभवैर्वियुक्त-
 
श्विराय जीवेत्करणैः सुशुद्धैः ॥ ३३ ॥
 
करेण तेनैव जलाभिपूर्ण
 
प्रजप्य मन्त्री करकं पिधाय ।
 
सुधायितैस्तैर्विषिणं निषिचे-
 
द्विषं निहन्यादपि कालकूटम् ॥ ३४ ॥
 
गदितं निजपाणितलं विषिणः
 
शिरसि प्रविधाय जलैः शितधीः ।
 
अचिरात्प्रतिमोचयते विषतो
 
मतिमानथ तक्षकदष्टमपि ॥ ३५ ॥
 
इत्यजपामन्त्रविधिः
 
संप्रोक्तः संग्रहेण मन्त्रिवराः ।