This page has not been fully proofread.

चतुर्दशः पटलः ।
 
२२१
 
भवतु भवदभीष्टावाप्तये पाशाटङ्का-
 
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ २४ ॥
 
प्रजपद्दादशलक्षं
 
मनुमिममाज्यान्वितैश्च दौग्धान्नैः ।
 
तावत्सहस्रमानं
 
जुहुयात्सौरे समर्चनापीठे ॥ २५ ॥
 
निक्षिप्य कलम स्मि-
 
न्पूर्वोक्तानामपामथैकेन !
 
आपूर्य चोपचर्य च
 
विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ २६ ॥
 
ऋतवसुवरनरसंज्ञा-
 
स्तथर्तवो बद्रि पूर्विकाजान्ताः ।
 
आशोपाशास्थेया-
 
स्ततो दिशांपास्ततश्च वज्राद्याः ॥ २७ ॥
 
इति परिपूज्य च कलशं
 
पुनरभिषिच्याथ नियमितोऽर्घ्यमपि ।