2026-02-24 05:34:12 by ambuda-bot
This page has not been fully proofread.
२२०
प्रपञ्चसारे
एकीकृत्य समस्तवस्त्वनुगत्तानादित्यचन्द्रानला-
वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया ।
सर्वे तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना
नित्यं शुद्धमनन्यमक्षरपदं मन्त्री भवेद्योगतः ॥ २० ॥
अथ वदाम्यजपामनुमुत्तमं
सकलसंसृतियापनसाधनम् ।
दुरितरोगविषापहरं नृणा-
मिह परत्र च वाञ्छितसिद्धिदम् ॥ २१ ॥
विष्णुपदं ससुधाकरखण्डं
चन्द्रयुगावधिकं वतुरीयम् ।
क्षेत्रविदो मनुरेष समुक्तो
यं प्रपत्यपि संततमात्मा ॥ २२ ॥
ऋष्याद्या ब्रह्मदैव्यादिगायत्री परमात्मकः ।
हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ २३ ॥
अरुणकनकवर्ण पद्मसंस्थं च गौरी-
हरनियमितचिह्नं सौम्य तानूनपातम् ।