This page has not been fully proofread.

चतुर्दशः पटलः ।
 
२१९
 
अथ कृतपुष्पाञ्जलिर पि
 
पुनरष्टशतं जपेन्मनुं मन्त्री ।
 
यावद्रश्मिषु भानो-
 
र्व्याप्नोत्यम्भः सुधामयं तदपि ॥ १६ ॥
 
अमृतमयुजलावसिक्तगात्रो
दिनपतिरप्यमृतत्वमातनोति ।
धनविभवसुदारमित्रपुत्रं
 
पशुगणजुष्टमनन्तभोगयोगि ॥ १७ ॥
 
तस्मादिनाय दिनशो ददताहिनादौ
 
दैन्यापनोदित नवे दिनवल्लभाय ।
 
अर्घ्य समविभवस्त्वथ वार्कवारे
 
पारं स गच्छति भवाह्वयवारिराशेः ॥ १८ ॥
 
अनुदिनमर्चयितव्यः
 
पुंसा विधिनामुनाथ वा रवये ।
 
दद्यादर्घ्यद्वयमपि
 
कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ १९ ॥