This page has not been fully proofread.

२१८
 
प्रपञ्चसारे
 
प्रतिपूज्य शक्तिमिति तत्र पुरः
 
प्रणिधाय ताम्ररचितं चषकम् ।
 
प्रजपन्मनुं प्रतिगतक्रमतः
 
प्रतिपूरयेत्सुविमलैः सलिलैः ॥ १२ ॥
 
अक्षत कुशयवदूर्वा-
 
तिलसर्षपकुसुमचन्दनोपेतैः ।
 
प्रस्थमाह्यच्छिद्रं
 
स्वैक्यं संभावयन्समाहितधीः ॥ १३ ॥
 
इष्ट्रा दिनेशमथ पीठगतं तथैव
 
व्योमस्थितं परिवृतावरणं विलोक्य ।
 
अष्टोत्तरं शतमथ प्रजपेन्मनुं तं
 
पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ १४ ॥
 
भूयोऽभ्यर्च्य सुधामयं जलमथो तद्गन्धपुष्पादिभि-
र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् ।
दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्यार्घ्यमोजोबल-
 
ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ १५ ।