This page has not been fully proofread.

२१६
 
प्रपञ्चसरे
 
संदीक्षितोऽथ प्रजपेच मन्त्रं
 
मन्त्री पुनर्लक्षचतुष्कमेनम् ।
पुष्पैस्तदन्ते द्विजवृक्षजातैः
 
स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ ४ ॥
 
मनोरथार्कात्मतया त्वनेन
 
प्रवर्त्यते ऽर्येपहिता प्रपूजा ।
 
समे सुमृष्टे रचयेद्विविक्ते
 
शुद्धे तले स्थण्डिलमङ्गणस्य ॥ ५ ॥
 
प्रयजेथ प्रभूतां
 
विमलां साराह्वयां समाराध्याम् ।
 
परमसुखामग्न्यादि-
 
वश्रिषु मध्ये च पीठक्लप्तेः प्राक् ॥ ६ ॥
 
हस्वत्रयक्कीबवियोजिताभि:
 
क्रमात्कृशान्विन्दुयुताभिरभिः ।
 
सहाभिपूज्या नव शक्तयः स्युः
 
प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ ७ ॥