This page has not been fully proofread.

चतुर्दशः पटलः ॥
 
अथ कथयिष्ये मन्त्रं
 
चतुरक्षरसंज्ञकं समासेन ।
 
प्रणवो भुवनाधीशो
 
दण्डिखमस्यादिको विसर्गान्तः ॥ १ ॥
 
ऋषिरस्याजश्छन्दो
 
गायत्रं देवता च भुवनेशी ।
 
अङ्गानि षट् क्रमेण
 
प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ २ ॥
 
भास्वद्रत्नौघमौलिल्फुरदमृतरुचो रञ्जयश्चारु रेखां
सम्यक्संतप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा-
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्क वपूर्वः ॥