This page has not been fully proofread.

२१४
 
परे
 
धियासतां वै निखनेन्नराणां
 
संस्तम्भनं द्वारि चमूमुखे च ॥ ८४ ॥
 
पानीयान्धः पाणिमार्या प्रसन्नां
 
ध्यात्वा ग्रामं वा पुरं वापि गच्छन् ।
जत्वा मन्त्रं तर्पयित्वा प्रविष्टो
 
मृष्टं भोज्यं प्राप्नुयाद्भूत्यवगैः ॥ ८५ ॥
 
आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै-
राश्वत्थैव त्वतिविशदचेतास्तिलैर्वा जुहोतु ।
यानुद्दिश्यावहितमनसा तन्मये सम्यगनौ
 
ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ ८६ ॥
 
कुर्यात्प्रयोगानपि दाबदुर्गा-
 
कल्पोदितान्वै मनुनामुना च ।
 
मन्त्री जपाचहुतितर्पणाद्या-
 
नाल्पो हि मन्वोरनयोर्विशेषः ॥ ८७ ॥
 
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
 
प्रपञ्चसारे त्रयोदशः पटलः ॥