This page has not been fully proofread.

त्रयोदशः पटलः ।
 
अप्रतिहतास्य शक्ति-
 
भूयात्प्रागेव वत्सरतः ॥ ८० ॥
 
सर्पिषाष्टशतहोमतोऽमुना
 
वाञ्छितं सकलमब्दतो भवेत् ।
 
दुर्वया त्रियुजेप्सितं लभे-
 
त्सम्यगष्टशतसंख्यया हुतात् ॥। ८१ ॥
 
क्षुरिकाकृपाणनखरा
 
मन्त्रेणानेन साधु संजप्ताः ।
 
संपाताज्यसुसिक्ता
 
अप्रतिहतशक्तयो भवन्ति युधि ॥ ८२ ॥
 
गोमयविहिताङ्गुलिकां
 
जुहुयाच्छतमष्टपूर्वकं मन्त्री ।
 
दिवसैः सप्तभिरिष्टौ
 
द्विष्ट्वौ च मिथो वियोगिनौ भवतः ॥ ८३ ॥
 
अस्पृष्टकुं गोमयमन्तरिक्षे
 
संगृह्य जत्वा त्रिसहस्रमानम् ।
 
२१३