This page has not been fully proofread.

त्रयोदशः पटलः ।
 
दुर्गा च वरदा विन्ध्यवासिन्य सुरमर्दिनी ।
 
युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ ७१ ॥
 
महायोगेश्वरी चाष्ट शक्तयः समुदीरिताः ।
रथाङ्गशङ्खासिगदावाणकार्मुकसंज्ञिता: ॥ ७२ ॥
 
सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः ।
दीक्षा पहुताचभिः सिद्धिः कर्म समाचरेत् ।
आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ ७३ ॥
उद्धर्णैः प्रहरणकैरुदीर्णवेगैः
 
शूलाद्यैनिजमथ शूलिनीं विचिन्त्य ।
 
आविश्य क्षणमित्र जप्यमानमन्त्र-
 
स्यावृत्त्या द्रुतमपयान्ति भूतसंघाः ॥ ७४ ॥
 
अन्तराथ पुनरात्मरोगिणा-
 
मम्बिकामपि निजायुधाकुलाम् ।
 
संविचिन्त्य जपतोऽरिमुद्रया
 
विद्रवन्त्यवशविग्रहा ग्रहाः ॥ ७५ ॥
 
अहिमूषिकवृश्चिकादिजं वा
 
बहुपात्कुक्कुरलूतिकोद्भवं वा ।
 
२.११