2026-02-24 05:34:09 by ambuda-bot
This page has not been fully proofread.
२१०
प्रपञ्चसारे
ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता ।
दुर्गा हृद्वरदा शीर्ष शिखा स्याद्विन्ध्यवासिनी ॥ ६६ ॥
वर्म चासुरमर्दिन्या युद्धपूर्वप्रिये तथा ।
त्रासयद्वितयं चात्रं देवसिद्ध सुपूजिते ॥ ६७ ॥
नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च ।
शूलिन्याद्यं तु पञ्चाङ्गं हुंफडन्तमितीरितम् ।
अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ ६८ ॥
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै-
र्मेघश्यामा 'किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिभिन्नदैत्या भवतु भवभयध्वंसनी शूलिनी वः ॥
एवं विचिन्त्य पुनरक्षरलक्षमेनं
मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते ।
आज्येन साज्यहविषा प्रयजेच देवी-
मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ ७० ॥
1. किरीटोल्लसितशशिकलोल्लासिता